Translate

Monday 7 May 2018

Anjaneya stotram आंजनेय स्तोत्रं

ज्येष्ठ मास(हनुमंत मास)बड़े मंगल की शुभकामनाएं
बड़ा मंगल(द्वितीय)

श्री आञ्जनेयस्तोत्रम्

      (उमामहेश्वरसंवादात्मकम्)

शृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वभयापहम् ।
सर्वकामप्रदं नॄणां हनूमत्स्तोत्रमुत्तमम्॥ १ ॥

तप्तकाञ्चनसंकाशं नानारत्नविभूषितम्।
उद्यत्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥ २ ॥

मौञ्जीकौपीनसंयुक्तं हेमयज्ञोपवीतिनम्।
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम्॥ ३ ॥

शिखानिक्षिप्तवालाग्रं मेरुशैलाग्रसंस्थितम्।
मूर्तित्रयात्मकं पीनं महावीरं महाहनुम् ॥ ४ ॥

हनुमन्तं वायुपुत्रं नमामि ब्रह्मचारिणम् ।
त्रिमूर्त्यात्मकमात्मस्थं जपाकुसुमसन्निभम् ॥ ५ ॥

नानाभूषणसंयुक्तं आञ्जनेयं नमाम्यहम् ।
पञ्चाक्षरस्थितं देवं नीलनीरद सन्निभम् ॥ ६ ॥

पूजितं सर्वदेवैश्च राक्षसान्तं नमाम्यहम् ।
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम्॥ ७ ॥

षडक्षरस्थितं देवं नमामि कपिनायकम्।
तप्तस्वर्णमयं देवं हरिद्राभं सुरार्चितम् ॥ ८ ॥

सुन्दरांसाब्जनयनं त्रिनेत्रं तं नमाम्यहम् ।
अष्टाक्षराधिपं देवं हीरवर्णसमुज्ज्वलम् ॥ ९ ॥

नमामि जनतावन्द्यं लङ्काप्रासादभञ्जनम्।
अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् ॥ १० ॥

जटाधरं चतुर्बाहुं नमामि कपिनायकम्।
द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् ॥ ११ ॥

अङ्कुशं च दधानं तं कपिवीरं नमाम्यहम् ।
त्रयोदशाक्षरयुतं सीतादुःखनिवारणम् ॥ १२ ॥

पीतवर्णं लसत्कायं भजे सुग्रीवमन्त्रिणम्।
मालामन्त्रात्मकं देवं चित्रवर्णं चतुर्भुजम् ॥ १३ ॥

पाशाङ्कुशाभयकरं धृतटङ्कं नमाम्यहम्।
सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥ १४ ॥

एवं ध्यायन्नरो नित्यं सर्वपापैः प्रमुच्यते ।
प्राप्नोति चिन्तितं कार्यं शीघ्रमेव न संशयः ॥ १५ ॥

अन्य किसी जानकारी, समस्या समाधान एवम कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।

Abhishek B. Pandey
7579400465
8909521616 (whats app)

 हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-
https://www.facebook.com/Astrology-paid-service-552974648056772/

हमारे ब्लॉग को सब्सक्राइब करें:-
http://jyotish-tantra.blogspot.com

No comments:

Post a Comment