Translate

Saturday 9 February 2019

Vasant Panchami 2019 वसन्त पंचमी 2019 विशेष

बसन्त पंचमी 2019 विशेष

सरस्वती पूजा का मुहूर्त 10 फरवरी 2019, विशेष मुहूर्त
सुबह 07:07 बजे से मध्यान 12:35 तक का है और इस मुहूर्त की अवधि 5 घंटे 27 मिनट तक रहेगी |
बसंत पंचमी को अबूझ मुहूर्त कहा जाता है। आज पूरे दिन आप अपने किसी भी नए कार्य का आरम्भ कर सकते हैं ये एक स्वयं सिद्ध और श्रेष्ठ मुहूर्त होता है।


ध्यान मंत्र :

या कुन्देन्दु तुषारहार धवला या शुभ्रवस्त्रावृता।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।
शुक्लां ब्रह्मविचारसारपरमांद्यां जगद्व्यापनीं ।
वीणा-पुस्तक-धारिणीमभयदां जाड्यांधकारपहाम्।।
हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थिताम् । वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।।2।।

             ।।श्रीसरस्वतीकवचम् ।।

भैरव उवाच -

शृणु देवि! प्रवक्ष्यामि वाणीकवचमुत्तमम् ।
त्रैलोक्यमोहनं नाम दिव्यं भोगापवर्गदम् ॥ १॥

मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् ।
सर्वैश्वर्यप्रदं लोके सर्वाङ्गमविनिश्चितम् ॥ २॥

पठनाच्छ्रवणात् देवि! महापातकनाशनम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥

यद्धृत्वा कवचं ब्रह्मा विष्णुरीशः शचीपतिः ।
यमोऽपि वरुणश्चैव कुबेरोऽपि दिगीश्वराः ॥ ४॥

ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिसूदनः ।
शिवः संहरते विश्व जिष्णुः सुमनसां पतिः ॥ ५॥

दिगीश्वराश्च दिक्पाला यथावदनुभूतये ।
त्रैलोक्यमोहनं वक्ष्ये भोगमोक्षैकसाधनम् ॥ ६॥

सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् ।
त्रैलोक्यमोहनस्यास्य कवचस्य प्रकीर्तितः ॥ ७॥

विनियोगः -
ऋषिः कण्वो विराट् छन्दो देवी सरस्वती शुभा ।
अस्य श्रीसरस्वती देवता, ह्रीं बीजं, ॐ शक्तिः, ऐं कीलकं,
त्रिवर्गफलसाधने विनियोगः ।

ऋष्यादिन्यासः -
कण्वऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे ।
देवीसरस्वत्यै नमः हृदि । ह्रीं बीजाय नमः गुह्ये ।
ॐ शक्तये नमः नाभौ । ऐं कीलकाय नमः पादयोः ।
त्रिवर्गफलसाधने विनियोगाय नमः सर्वाङ्गे॥

ॐ ऐं ह्रीं ह्रीं पातु वाणी शिरो मे सर्वदा सती ।
ॐ ह्रीं सरस्वती देवी भालं पातु सदा मम ॥ ८॥

ॐ ह्रीं भ्रुवौ पातु दुर्गा दैत्यानां भयदायिनी ।
ॐ ऐं ह्रीं पातु नेत्रे सर्वमङ्गलमङ्गला ॥ ९॥

ॐ ह्रीं पातु श्रोत्रयुग्मं जगदभयकारिणी ।
ॐ ऐं नासा पातु नित्यं विद्या विद्यावरप्रदा ॥ १०॥

ॐ ह्रीं ऐं पातु वक्त्रं वाग्देवी भयनाशिनी ।
अं आं इं ईं पातु दन्तान् त्रिदन्तेश्वर पूजिताः ॥ ११॥

उं ऊं ऋं ॠं ऌं ॡं एं ऐं पातु ओष्ठौ च भारती ।
ओं औं अं अः पातु कण्ठं नीलकण्ठाङ्कवासिनी ॥ १२॥

कं खं गं घं ङं पायान्मे चांसौ देवेशपूजिता ।
चं छं जं झं ञं मे पातु वक्षो वक्षःस्थलाश्रया ॥ १३॥

टं ठं डं ढं णं पायान्मे पार्श्वौ पार्श्वनिवासिनी ।
तं थं दं धं नं मे पातु मध्ये लोकेशपूजिता ॥ १४॥

पं फं बं भं मं पायान्मे नाभिं ब्रह्मेशसेविता ।
यं रं लं वं पातु गुह्य नितम्बप्रियवादिनी ॥ १५॥

शं षं सं हं कटिं पातु देवी श्रीवगलामुखी ।
ऊरू ळं क्षं सदा पातु सर्वाविद्याप्रदा शिवा ॥ १६॥

सरस्वती पातु जङ्घे रमेश्वरप्रपूजिता ।
ॐ ह्रीं ऐं ह्रीं पातु पादौ पादपीठनिवासिनी ॥ १७॥

विस्मारितं च यत् स्थानं यद्देशो नाम वर्जितः ।
तत्सर्वं पातु वागेशी मूलविद्यामयी परा ॥ १८॥

पूर्वे मां पातु वाग्देवी वागेशी वह्निके च माम् ।
सरस्वती दक्षिणे च नैऋत्ये चानलप्रिया ॥ १९॥

पश्चिमे पातु वागीशा वायौ वेणामुखी तथा ।
उत्तरे पातु विद्या चैशान्यां विद्याधरी तथा ॥ २०॥

असिताङ्गो जलात् पातु पयसो रुरुभैरवः ।
चण्डश्च पातु वातान्मे क्रोधेशः पातु धावतः ॥ २१॥

उन्मत्तस्तिष्ठतः पातु भीषणश्चाग्रतोऽवतु ।
कपाली मार्गमध्ये च संहारश्च प्रवेशतः ॥ २२॥

पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु ।
शिरसः पादपर्यन्तं देवी सरस्वती मम ॥ २३॥

इतीदं कवचं वाणी मन्त्रगर्भं जयावहम् ।
त्रैलोक्यमोहनं नाम दारिद्र्यभयनाशनम् ॥ २४॥

सर्वरोगहरं साक्षात् सिद्धिदं पापनाशनम् ।
विद्याप्रदं साधकानां मूलविद्यामयं परम् ॥ २५॥

परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।
यः पठेत् कवचं देवि! विवादे शत्रुसङ्कटे ॥ २६॥

वादिमुखं स्तम्भयित्वा विजयी गृहमेष्यति ।
पठनात् कवचस्यास्य राज्यकोपः प्रशाम्यति ॥ २७॥

त्रिवारं यः पठेद् रात्रो श्मशाने सिद्धिमाप्नुयात् ।
रसैर्भूजे लिखेद् वर्म रविवारे महेश्वरि! ॥ २८॥

अष्टगन्धेर्लाक्षया च धूपदीपादितर्पणैः ।
सुवर्णगुटिकां तत्स्थां पूजयेत् यन्त्रराजवत् ॥ २९॥

गुटिकैषा महारूपा शुभा सरस्वतीप्रदा ।
सर्वार्थसाधनी लोके यथाऽभीष्टफलप्रदा ॥ ३०॥

गुटिकेयं शुभा देव्या न देया यस्य कस्यचित् ।
इदं कवचमीशानि मूलविद्यामयं ध्रुवम् ॥ ३१॥

विद्याप्रदं श्रीपदं च पुत्रपौत्रविवर्धनम् ।
आयुष्यकरं पुष्टिकरं श्रीकरं च यशः प्रदम् ॥ ३२॥

इतीदं कवचं देवि! त्रैलोक्यमोहनाभिधम ।
कवचं मन्त्रगर्भं तु त्रैलोक्य मोहनाभिधम् ॥ ३३॥

॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये सरस्वती कवचम् ॥
http://jyotish-tantra.blogspot.com
*********************************

श्रीसरस्वतीस्तोत्रं ( देवगुरु बृहस्पतिविरचितम् )

श्रीगणेशाय नमः ।
बृहस्पतिरुवाच
सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥

मतिदां वरदां चैव सर्वकामफलप्रदाम् ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २॥

मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३॥

मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् ।
पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥ ४॥

आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।
ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥ ५॥

इति सत्यं स्तुता देवी वागीशेन महात्मना ।
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ६॥

श्रीसरस्वत्युवाच
वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते ।
बृहस्पतिरुवाच
प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥ ७॥

श्रीसरस्वत्युवाच
दत्तं ती निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥ ८॥

लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः ।
कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥ ९॥

त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ १०॥

॥ इति श्रीरुद्रयामले श्रीबृहस्पतिविरचितं सरस्वतीस्तोत्रम्
सम्पूर्णम् ॥
http://jyotish-tantra.blogspot.com
***********************************

 ।।विद्यादान वाक्सरस्वती हृदयस्तोत्रम् ।।

कला, विद्या, नृत्य, संगीत नाट्य आदि विविध कलाओं में सफलता एवं प्रसिद्धि पाने के इच्छुक जातकों को इस विद्यादान वाक्सरस्वती हृदय स्तोत्र का पाठ करना चाहिए तथा अष्टगन्ध से देवी का अभिषेक, तिलक कर स्वयं तिलक धारण करना चाहिए।

ॐ अस्य श्री वाग्वादिनी शारदामन्त्रस्य मार्कण्डेयाश्वलायनौ ऋषी,
स्रग्धरा अनुष्टुभौ छन्दसी,
श्रीसरस्वती देवता । श्रीसरस्वतीप्रसादसिद्ध्यर्थे विनियोगः ॥
ध्यानम् ॥
शुक्लां ब्रह्मविचारसारपरमां आद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेष्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १॥

ब्रह्मोवाच ।
ह्रीं ह्रीं हृद्यैकविद्ये शशिरुचिकमलाकल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे ।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्प्लुष्टा ज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ २॥

ऐं ऐं ऐं इष्टमन्त्रे कमलभवमुखाम्भोजरूपे स्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्यविदितविषये नापि विज्ञानतत्त्वे
विश्वे विश्वान्तराळे सुरवरनमिते निष्कळे नित्यशुद्धे ॥ ३॥

ह्रीं ह्रीं ह्रीं जापतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ॥ ४॥

ध्रीं ध्रीं ध्रीं धारणाख्ये धृतिमतिनुतिभिः नामभिः कीर्तनीये
नित्ये नित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्यप्रभावे हरिहरनमिते वर्णशुद्धे सुवर्णे
मन्त्रे मन्त्रार्थतत्त्वे मतिमतिमतिदे माधवप्रीतिनादे ॥ ५॥

ह्रीं क्षीं धीं ह्रीं स्वरूपे दह दह रुदितं पुस्तकव्यग्रहस्ते
सन्तुष्टाचारचित्ते स्मितमुखि सुभगे जंभनिस्तंभविद्ये ।
मोहे मुग्द्धप्रबोधे मम कुरु सुमतिं ध्वान्तविध्वंसनित्ये
गीर्वाग् गौर्भारती त्वं कविवररसनासिद्धिदा सिद्धिसाद्ध्या ॥ ६॥

सौं सौं सौं शक्तिबीजे कमलभवमुखांभोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतत्त्वे
विश्वे विश्वान्तराळे सुरगणनमिते निष्कळे नित्यशुद्धे ॥ ७॥

स्तौमि त्वां त्वां च वन्दे भज मम रसनां मा कदाचित् त्यजेथा
मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे जातु पापम् ।
मा मे दुःखं कदाचिद्विपदि च समयेऽप्यस्तु मेऽनाकुलत्वम्
शास्त्रे वादे कवित्वे प्रसरतु मम धिः माऽस्तु कुण्ठा कदाचित् ॥ ८॥

इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रः
देवीं वाचस्पतेरप्यतिमतिविभवो वाक्पटुर्नष्टपङ्कः ।
सः स्यादिष्टार्थलाभः सुतमिव सततं पाति तं सा च देवि
सौभाग्यं तस्य लोके प्रभवति कविताविघ्नमस्तं प्रयाति ॥ ९॥

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो नरः पाठात् स स्यादिष्टार्थलाभवान् ॥ १०॥

पक्षद्वयेऽपि यो भक्त्या त्रयोदश्येकविंशतिम् ।
अविच्छेदं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ ११॥

शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् ।
वाञ्छितं फलमाप्नोति स लोके नात्र संशयः ॥ १२॥

इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् ।
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वं प्रयच्छति ॥ १३॥

इति श्रीब्रह्माण्डपुराणे नारदनन्दिकेश्वरसंवादे ब्रह्मप्रोक्ते
विद्यादानवाक्सरस्वतीहृदयस्तोत्रं सम्पूर्णम् ॥
http://jyotish-tantra.blogspot.com
********************************

।।श्रीसरस्वत्यष्टकम् ।।

अमला विश्ववन्द्या सा कमलाकरमालिनी ।
विमलाभ्रनिभा वोऽव्यात्कमला या सरस्वती ॥ १॥

वार्णसंस्थाङ्गरूपा या स्वर्णरत्नविभूषिता ।
निर्णया भारति श्वेतवर्णा वोऽव्यात्सरस्वती ॥ २॥

वरदाभयरुद्राक्षवरपुस्तकधारिणी ।
सरसा सा सरोजस्था सारा वोऽव्यात्सरास्वती ॥ ३॥

सुन्दरी सुमुखी पद्ममन्दिरा मधुरा च सा ।
कुन्दभासा सदा वोऽव्याद्वन्दिता या सरस्वती  ॥ ४॥

रुद्राक्षलिपिता कुम्भमुद्राधृतकराम्बुजा ।
भद्रार्थदायिनी साव्याद्भद्राब्जाक्षी सरस्वती ॥ ५॥

रक्तकौशेयरत्नाढ्या व्यक्तभाषणभूषणा ।
भक्तहृत्पद्मसंस्था सा शक्ता वोऽव्यात्सरस्वती ॥ ६॥

चतुर्मुखस्य जाया या चतुर्वेदस्वरूपिणी ।
चतुर्भुजा च  सा वोऽव्याच्चतुर्वर्गा सरस्वती  ॥ ७॥

सर्वलोकप्रपूज्या या पर्वचन्द्रनिभानना ।
सर्वजिह्वाग्रसंस्था सा सदा वोऽव्यात्सरस्वती  ॥ ८॥

सरस्वत्यष्टकं नित्यं सकृत्प्रातर्जपेन्नरः।
अज्ञैर्विमुच्यते सोऽयं प्राज्ञैरिष्टश्च लभ्यते  ॥ ९॥

।।इति श्रीसरस्वत्यष्टकं समाप्तम् ।।
http://jyotish-tantra.blogspot.com
*******************************

।।श्रीसरस्वत्यष्टोत्तर-शतनामस्तोत्रम् ।।

सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ॥ १॥

शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा ।
कामरूपा महाविद्या महापातकनाशिनी ॥ २॥

महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्याङ्गा सुरवंदिता ॥ ३॥

महाकाली महापाशा महाकारा महाङ्कुशा ।
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ ४॥

चंद्रिका चंद्रवदना चंद्रलेखाविभूषिता ।
सावित्री सुरसा देवी दिव्यालंकारभूषिता ॥ ५॥

वाग्देवी वसुधा तीव्रा महाभद्रा महाबला ।
भोगदा भारती भामा गोविंदा गोमती शिवा ॥ ६॥

जटिला विंध्यवासा च विंध्याचलविराजिता ।
चंडिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ ७॥

सौदामिनी सुधामूर्तिस्सुभद्रा सुरपूजिता ।
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥ ८॥

विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ।
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥ ९॥

शुंभासुरप्रमथिनी शुभदा च सर्वात्मिका ।
रक्तबीजनिहंत्री च चामुण्डा चांबिका तथा ॥ १०॥

मुण्डकाय प्रहरणा धूम्रलोचनमर्दना ।
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥ ११॥

कालरात्री कलाधारा रूप सौभाग्यदायिनी ।
वाग्देवी च वरारोहा वाराही वारिजासना ॥ १२॥

चित्रांबरा चित्रगंधा चित्रमाल्यविभूषिता ।
कांता कामप्रदा वंद्या विद्याधरा सूपूजिता ॥ १३॥

श्वेतासना नीलभुजा चतुर्वर्गफलप्रदा ।
चतुराननसाम्राज्या रक्तमध्या निरंजना ॥ १४॥

हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ।
एवं सरस्वती देव्या नाम्नामष्टोत्तरशतम् ॥ १५॥
http://jyotish-tantra.blogspot.com
***********************************
।।इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

        ।।सरस्वती द्वादशनाम स्तोत्र।।

प्रथम भारती नाम, द्वितीय च सरस्वती
तृतीय शारदा देवी, चतुर्थ हंसवाहिनी
पंचमम् जगतीख्याता, षष्ठम् वागीश्वरी तथा
सप्तमम् कुमुदीप्रोक्ता, अष्ठमम् ब्रह्मचारिणी
नवम् बुद्धिमाता च दशमम् वरदायिनी
एकादशम् चंद्रकांति द्वादाशां भुवनेशवरी
द्वादशेतानि नामानि त्रिसंध्य य: पठेनर:
जिह्वाग्रे वसते नित्यमं ब्रह्मरूपा सरस्वती ।
http://jyotish-tantra.blogspot.com

निम्न मंत्र या इनमें किसी भी एक मंत्र का अधिकाधिक यथा सम्भव जाप करे

1. सरस्वती महाभागे विद्ये कमललोचने
विद्यारूपा विशालाक्षि विद्यां देहि नमोस्तुते॥

2. या देवी सर्वभूतेषू, मां सरस्वती रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:।।

3. ऐं ह्रीं श्रीं वाग्वादिनी सरस्वती देवी मम जिव्हायां।
सर्व विद्यां देही दापय-दापय स्वाहा।।

4. एकादशाक्षर सरस्वती मंत्र
ॐ ह्रीं ऐं ह्रीं सरस्वत्यै नमः।

5. वर्णानामर्थसंघानां रसानां छन्दसामपि।
मंगलानां च कर्त्तारौ वन्दे वाणी विनायकौ।।

6. सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नम:।
वेद वेदान्त वेदांग विद्यास्थानेभ्य एव च।।
सरस्वति महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तुते।।

7. स्मरण शक्ति बढ़ाने के लिए।

ॐ ऐं ह्रीं श्रीं सरस्वत्यै स्वाहा।

अन्य किसी प्रकार की जानकारी ,कुंडली विश्लेषण या समस्या समाधान हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।
Abhishek B. Pandey
नैनीताल, उत्तराखण्ड

7579400465
8909521616(whats app)

 हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-

https://www.facebook.com/Astrology-paid-service-552974648056772/

हमारे ब्लॉग को सब्सक्राइब करें:-

http://jyotish-tantra.blogspot.com