Translate

Tuesday, 2 June 2026

मारुति कवचम

पंचम बड़े मंगल की शुभकामनाएं 

मारुतिकवचम् 


ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय ।
प्रतापवज्रदेहाय । अञ्जनागर्भसम्भूताय ।
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबन्धनाय ।
भूतग्रहबन्धनाय । प्रेतग्रहबन्धनाय । पिशाचग्रहबन्धनाय ।
शाकिनीडाकिनीग्रहबन्धनाय । काकिनीकामिनीग्रहबन्धनाय ।
ब्रह्मग्रहबन्धनाय । ब्रह्मराक्षसग्रहबन्धनाय । चोरग्रहबन्धनाय ।
मारीग्रहबन्धनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय ।
मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर ।
सत्यं कथय । व्याघ्रमुखबन्धन । सर्पमुखबन्धन ।
राजमुखबन्धन । नारीमुखबन्धन । सभामुखवन्धन ।
शत्रुमुखबन्धन । सर्वमुखबन्धन । लङ्काप्रासादभञ्जन ।
अमुकं मे वशमानय । क्लीं क्लीं क्लीं ह्रीं श्रीं श्रीं राजानं वशमानय ।
श्रीं ह्रीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रून्मर्दय मर्दय मारय मारय
चूर्णय चूर्णय
खे खे श्रीरामचन्द्राज्ञया मम कार्यसिद्धिं कुरु कुरु ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा ।
विचित्रवीर हनूमन् मम सर्वशत्रून् भस्मी कुरु कुरु ।
हन हन हुं फट्स्वाहा ।
(एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥)

इस मारुति कवच के 11 पाठ करने से शत्रु भी वश में हो जाता है।

।।जय श्री राम।।

अन्य किसी जानकारी, समस्या समाधान एवं कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।

7579400465
8909521616(whats app)

फेसबुक पर जुड़ें

https://m.facebook.com/Astrology-paid-service-552974648056772

For more easy & useful remedies visit

 http://jyotish-tantra.blogspot.in

Tuesday, 19 May 2026

पंचमुखी हनुमान हृदय स्तोत्र Panchmukhi Hanuman Hridaya stotra

सभी मित्रों को तीसरे बड़े मंगल की शुभकामनाएं 
 विशेष: श्रीपञ्चमुख हनुमत् हृदयम् स्तोत्रम
   ॥  श्रीगणेशाय नमः ॥

  ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥

ॐ अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य
भगवान् श्रीरामचन्द्र ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीपञ्चवक्त्र हनुमान् देवता । ॐ बीजम् ।
रुद्रमूर्तये इति शक्तिः । स्वाहा कीलकम् ।
श्रीपञ्चवक्त्र हनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादि न्यासः ॥

ॐ ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ ह्रूं वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ ह्रैं अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ ह्रौं रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः पञ्चवक्त्रहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥

ॐ ह्रां अञ्जनासुताय हृदयाय नमः ।
ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा ।
ॐ ह्रूं वायुपुत्राय शिखायै वषट् ।
ॐ ह्रैं अग्निगर्भाय कवचाय हुम् ।
ॐ ह्रौं रामदूताय नेत्रत्रयाय वौषट् ।
ॐ ह्रः पञ्चवक्त्रहनुमते अस्त्राय फट् ।
इति हृदयादि षडङ्गन्यासः ।
ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥

     अथ ध्यानम् ।
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ॥

सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥

     इति ध्यानम् ॥



ॐ नमो वायुपुत्राय पञ्चवक्त्राय ते नमः ।
नमोऽस्तु दीर्घबालाय राक्षसान्तकराय च ॥ १॥

वज्रदेह नमस्तुभ्यं शताननमदापह ।
सीतासन्तोषकरण नमो राघवकिङ्कर ॥ २॥

सृष्टिप्रवर्तक नमो महास्थित नमो नमः ।
कलाकाष्ठस्वरूपाय माससंवत्सरात्मक ॥ ३॥

नमस्ते ब्रह्मरूपाय शिवरूपाय ते नमः ।
नमो विष्णुस्वरूपाय सूर्यरूपाय ते नमः ॥ ४॥

नमो वह्निस्वरूपाय नमो गगनचारिणे ।
सर्वरम्भावनचर अशोकवननाशक ॥ ५॥

नमो कैलासनिलय मलयाचल संश्रय ।
नमो रावणनाशाय इन्द्रजिद्वधकारिणे ॥ ६॥

महादेवात्मक नमो नमो वायुतनूद्भव ।
नमः सुग्रीवसचिव सीतासन्तोषकारण ॥ ७॥

समुद्रोल्लङ्घन नमो सौमित्रेः प्राणदायक ।
महावीर नमस्तुभ्यं दीर्घबाहो नमोनमः ॥ ८॥

दीर्घबाल नमस्तुभ्यं वज्रदेह नमो नमः ।
छायाग्रहहर नमो वरसौम्यमुखेक्षण ॥ ९॥

सर्वदेवसुसंसेव्य मुनिसङ्घनमस्कृत ।
अर्जुनध्वजसंवास कृष्णार्जुनसुपूजित ॥ १०॥

धर्मार्थकाममोक्षाख्य पुरुषार्थप्रवर्तक ।
ब्रह्मास्त्रबन्द्य भगवन् आहतासुरनायक ॥ ११॥

भक्तकल्पमहाभुज भूतबेतालनाशक ।
दुष्टग्रहहरानन्त वासुदेव नमोऽस्तुते ॥ १२॥

श्रीरामकार्ये चतुर पार्वतीगर्भसम्भव ।
नमः पम्पावनचर ऋष्यमूककृतालय ॥ १३॥

धान्यमालीशापहर कालनेमिनिबर्हण ।
सुवर्चलाप्राणनाथ रामचन्द्रपरायण ॥ १४॥

नमो वर्गस्वरूपाय वर्णनीयगुणोदय ।
वरिष्ठाय नमस्तुभ्यं वेदरूप नमो नमः ।
नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमाम्यहम् ॥ १५॥

इति ते कथितं देवि हृदयं श्रीहनूमतः ।
सर्वसम्पत्करं पुण्यं सर्वसौख्यविवर्धनम् ॥ १६॥

दुष्टभूतग्रहहरं क्षयापस्मारनाशनम् ॥ १७॥

यस्त्वात्मनियमो भक्त्या वायुसूनोः सुमङ्गलम् ।
हृदयं पठते नित्यं स ब्रह्मसदृशो भवेत् ॥ १८॥

अजप्तं हृदयं य इमं मन्त्रं जपति मानवः ।
स दुःखं शीघ्रमाप्नोति मन्त्रसिद्धिर्न जायते ॥ १९॥

सत्यं सत्यं पुनः सत्यं मन्त्रसिद्धिकरं परम् ।
इत्थं च कथितं पूर्वं साम्बेन स्वप्रियां प्रति ॥ २०॥

महर्षेर्गौतमात्पूर्वं मया प्राप्तमिदं मुने ।
तन्मया प्रहितं सर्वं शिष्यवात्सल्यकारणात् ॥ २१॥

इति श्रीपराशरसंहितान्तर्गते श्रीपराशरमैत्रेयसंवादे
श्रीपञ्चमुखहनुमत् हृदयस्तोत्रं सम्पूर्णम् ॥

अन्य किसी जानकारी, समस्या समाधान एवम कुंडली विश्लेषण हेतु सम्पर्क कर सकते हैं।

।।जय श्री राम।।

Abhishek B. Pandey
7579400465
8909521616 (whats app)

 हमसे जुड़ने और लगातार नए एवं सरल उपयो के लिए हमारे फेसबुक पेज को लाइक करें:-
https://www.facebook.com/Astrology-paid-service-552974648056772/

हमारे ब्लॉग को सब्सक्राइब करें:-
http://jyotish-tantra.blogspot.com